4-2-15 स्थण्डिलात् च्छयितरि व्रते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र
व्रते तत्र शयितरि स्थण्डिलात् अण्
'स्थण्डिल'शब्दात् 'यः व्रतस्य उद्देशेन शयनं करोति' तस्य निर्देशं कर्तुमण् प्रत्ययः भवति ।
स्थण्डिलशब्दात् सप्तमीसमर्थात् शयितर्यभिधेये यथाविहितं प्रत्ययो भवति, समुदायेन चेद् व्रतं गम्यते। व्रतमिति शास्त्रितो नियम उच्यते। स्थण्डिले शयितुं व्रतमस्य स्थाण्डिलो भिक्षुः। स्थाण्डिलो ब्रह्मचारी। व्रत इति किम्? स्थण्डिले शेते ब्रह्मदत्तः॥
तत्रेत्येव । समुदायेन चेद्व्रतं गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ॥
<<स्थण्डिलाच्छयितरि व्रते>> - स्थण्डिलात् । स्थण्डिलशब्दात्सप्तम्यन्ताद्व्रतनिमित्तकशयनकर्तरि वाच्ये प्रत्ययः स्यादित्यर्थः ।
शास्त्रित इति । संजातशास्त्र इत्यर्थः । यद्वा - तृतीयासमर्थाद्विधानेऽर्थे'प्रातिपदिकाद्धत्वर्थे' इति णिच्, कर्मणि क्तः, शास्त्रेण विहित इत्यर्थः । स्थण्डिले शयितुं व्रतमस्येति । तुमुनत्र वक्तव्यः; व्रतस्याक्रियारूपत्वात् ॥