यथाविध्यनुप्रयोगः पूर्वस्मिन्

3-4-4 यथाविधि अनुप्रयोगः पूर्वस्मिन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् धातुसम्बन्धे

Kashika

Up

index: 3.4.4 sutra: यथाविध्यनुप्रयोगः पूर्वस्मिन्


पूर्वस्मिन् लोड्विधाने यथाविध्यनुप्रयोगो भवति। यस्माद् धातोः लोड् विहितः स एव धातुरनुप्रयोक्तव्यः। धातुसम्भन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव, यथाविध्यर्थं तु वचनम्। तथा च एव उदाहृतम् लुनीहि लुनीहि इत्येव अयं लुनीतीति। छिनत्तीति न अनुप्रयुज्यते। अधीष्वाधीष्वेत्येव अयमधीते। पठतीति न अनुप्रयुज्यते।

Siddhanta Kaumudi

Up

index: 3.4.4 sutra: यथाविध्यनुप्रयोगः पूर्वस्मिन्


आद्ये लोड्विधाने लोट्प्रकृतिभूत एव धातुरनुप्रयोज्यः ॥

Padamanjari

Up

index: 3.4.4 sutra: यथाविध्यनुप्रयोगः पूर्वस्मिन्


यथाविधीति । पदार्थनतिवृतौ'यथार्थे यदव्ययम्' इत्यव्ययीभावः, अनुप्रयोग इत्यनुशब्दो धात्वर्थानुवादी, न पश्चाद्भावेनानन्तर्येऽर्थे । तेन पूर्वव्यवहितप्रयोगोऽपि भवति । पूर्वस्मिन्निति वचनं विस्पष्टार्थम् । समुच्चये हि सामान्यवचनस्यानुप्रयोगं वक्ष्यति, तेन ततोऽन्यत्रायं विधिरन्यश्च विषयः पूर्वमेव लोड्विधानम् । धातुसम्बन्धे प्रत्ययविधानादिति । ननु च हिस्वान्तमेतदनभिव्यक्तपदार्थकम्, सख्याकालपुरुषाणामनभिव्यक्तत्वात्, अतस्तदर्थाभिव्यक्त्यर्थभेवानुप्रयोगः सिद्धः ? अस्त्वेवम्, किमेतावता वृत्तिकारोक्तो हेतुर्न भवति । अथ वा यावन्तमर्थमभिव्यङ्क्तुअं हिस्वान्तं समर्थं तावतो विवक्षायामनुप्रयोगासिद्धि मत्वैवमुक्तम् । यथाविध्यर्थ वचनमिति । ननु च'समुच्चये सामान्यवचनस्य' इति वक्ष्यति, तत्र नियमो विज्ञास्यते - समुच्चय एव धात्वन्तरस्यानुप्रयोग इति, ततश्च क्रियासमभिहारे यथाविध्यनुयोगो भविष्यति ? एवं मन्यते - समुच्चये सामान्यवचनस्यैवानुप्रयोग इति नियमादन्यत्र धात्वन्तरस्यापि स्यादिति च्छिनतीति नानुप्रयुज्यत इति । पचतीत्यादेभिन्नार्थस्य त्वप्रसङ्गः, लोडन्तेनानन्वयात् । समानार्थस्य तु सम्भवति सम्बन्धः, यथा - तस्यैव । एवं सामान्यवचनस्य करोत्यादेरप्यनुप्रयोगप्रसङ्गः, तस्यापि हि सन्निहेतलोडन्तवाच्ये विशेषे पर्यवसानात्सम्भवत्येवान्वयः । ननु चैकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भवति, एतच्च'कृञ्जानुप्रयुज्यते' इत्यत्र व्याख्यातम्, तत्र यथा गवां स्वामी अश्वेषु चेति न भवति, तथेहापि येनैव धातुना लोट्प्रयोगः प्रारब्धस्तेनैवासौ समापयिष्यते ? न; अस्यापि न्यायस्य वेदे लोके च व्यभिचारात् । वेदे तावत् - इन्द्राय राज्ञे सूकर इति चतुर्थोप्रयोगप्रकरणे क्षिप्रश्येनस्य वर्तिका ते धातुरिति षष्ठी, मयुः प्राजापत्य इति तद्धितश्च देवतासम्बन्धे दृश्यते । लोकेऽपि - सस्नुः, पयः पपुरिति लिटा सहानेनिजुरिति लङ् प्रयुक्तः । तस्मादारभ्यमेवैतत् ॥