स्थेशभासपिसकसो वरच्

3-2-175 स्थेशभासपिसकसः वरच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Kashika

Up

index: 3.2.175 sutra: स्थेशभासपिसकसो वरच्


ष्ठा गतिनिवृत्तौ, ईश ऐश्वर्ये, भासृ दीप्तौ, पिसृ पेसृ गतौ, कस गतौ, एतेभ्यस् तच्छीलादिषु कर्तृषु वरच् प्रत्ययो भवति। स्थावरः। ईश्वरः। भास्वरः। पेस्वरः। कस्वरः।

Siddhanta Kaumudi

Up

index: 3.2.175 sutra: स्थेशभासपिसकसो वरच्


स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । कस्वरः ॥

Balamanorama

Up

index: 3.2.175 sutra: स्थेशभासपिसकसो वरच्


स्थेशभासपिसकसो वरच् - स्थेश । ष्ठा गतिनिवृत्तौ, ईश ऐआर्ये, भासृ दीप्तौ, पिसू पेसृ गतौ, कस गतौ,एभ्यो वरच् स्यात्तच्छीलादिष्वित्यर्थः । ईआरीति तु पुंयोगे ङीष् ।

Padamanjari

Up

index: 3.2.175 sutra: स्थेशभासपिसकसो वरच्


स्थेशभासपिसकसो वचच्॥ ईश्वर इति।'नेड्वशि कृति' इतीट्प्रतिषेधः। स्त्रियामीश्वरा। विन्यस्तमङ्गलमहौषधिमीश्वरायाः। ठीश्वरआआ सर्वभूतानाम्ऽ इति तु छान्दसः। औणादिको वरडित्यन्ये।'पुंयोगादाख्यायाम्' इत्यन्ये। ठन्येभ्योऽपि द्दश्यन्तेऽ इति क्वनिपि'वनो र च' इति ङीब्रावीत्यन्ये॥