न रुधः

3-1-64 न रुधः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः चिण् ते कर्मकर्तरि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<रुधिर् आवरणे>> अस्मात् परस्य च्लेः कर्मकर्तरि चिणादेशो न भवति। अन्ववारुद्ध गौः स्वयमेव। कर्मकर्तरीत्येव — अन्ववारोधि गौर्गोपालकेन ॥

Siddhanta Kaumudi

Up

अस्मात् च्लेश्चिण्न । अवारुद्ध गौः । कर्मकर्तरीत्येव । अवारोधि गौर्गोपेन ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<न रुधः>> - न रुधः । अस्माच्चेश्चिण्नेति । अवारुद्ध गौरिति ।स्वयमेवे॑ति शेषः । कर्मकर्तरीत्येवेति ।अचः कर्मकर्तरी॑त्यतस्तदनुवृत्तेरिति भावः । अवारोधि गौर्गोपेनेति । इह गोः कर्मणः कर्तृत्वविवक्षाया अभावान्न चिण्निषेध इति भावः ।

Padamanjari

Up

न रुधः॥ रुधिर आवरणे इति। ठनो रुध कामेऽ इत्यस्य तु ग्रहणं न भवति, कर्तृस्थभावकत्वेन कर्मकर्तुरभावात्॥