3-1-62 अचः कर्मकर्तरि प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः चिण् ते अन्यतरस्याम्
अजन्ताद् धातोः परस्य च्लेः कर्मकर्तरि तशब्दे परतश्चिणादेशो भवति। प्राप्तविभाषेयम्। अकारि कटः स्वयमेव, अकृत कटः स्वयमेव। अलावि केदारः स्वयमेव, अलविष्ट केदारः स्वयमेव। अच इति किम् ? अभेदि काष्ठं स्वयमेव। कर्मकर्तरीति किम्? अकारि कटो देवदत्तेन॥
अजन्तात् च्लेश्चिण् वा स्यात्कर्मकर्तरि तशब्दे परे । अकारि । अकृत ॥
अचः कर्मकर्तरि॥ कर्मकर्तरीरि। यत्कर्म भूत्वा कर्ता भवति तत्रैत्यर्थः। प्राप्तविभाषेयमिति।'कर्मवत्कर्मणा' इत्यतिदेशेन नित्यं चिणः प्राप्तेः। अकारि कटो देवदतेनेति। अत्र शुद्धे कर्मणि'चिण् भावकर्मणोः' इति नित्यमेव चिण् भवति। नन्विह कर्तरोत्यनुवर्तिष्यते, यद्येवम्, शुद्धे कर्तरि स्यात्, कर्मणीति वाक्यभेदेन कर्ता विशेषयिष्यते - कर्मणि कर्तरीति ? नैतदेवं शक्यते लब्धुम्; कर्मणीत्युच्यमाने कर्तुर्निवृत्तिरेव स्यात्, चकारेऽपि क्रियमाणे कर्मणि च भवति कर्तरि च भवतीत्यधिकरणयोरेव समुच्चयः स्याद्, न सामानाधिकरण्ये प्रमाणमस्ति॥