2-3-35 दूरान्तिकार्थेभ्यः द्वितीया च अनभिहिते पञ्चमी तृतीया
पञ्चम्यनुवर्तते। दूरान्तिकार्थेभ्यः शब्देभ्यो द्वितीया विभक्तिर्भवति, चकारात् पञ्चमी, तृतीयापि समुच्चीयते। दूरं ग्रामस्य, दूराद् ग्रामस्य, दूरेण ग्रामस्य। अन्तिकं ग्रामस्य, अन्तिकाद् ग्रामस्य, अन्तिकेन ग्रामस्य। प्रातिपदिकार्थे विधानम्। असत्त्ववचनग्रहणं चानुवर्तते। सत्त्वशब्देभ्यो यथायथं विभक्तयो भवन्ति। दूरः पन्थाः। दूराय पथे देहि। दूरस्य पथः स्वम्॥
एभ्यो द्वितीया स्याच्चात्पञ्चमीतृतीये । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरं दूरात् दूरेण वा । अन्तिकमन्तिकात् अन्तिकेन वा । असत्त्ववचनस्येत्यनुवृत्तेर्नेह । दूरः पन्थाः ॥ इति पञ्चमी ॥
<<दूरान्तिकार्थेभ्यो द्वितीया च>> - दूरान्तिक । एभ्य इति । दूरार्थकेभ्योऽन्तिकार्थकेभ्यश्चेत्यर्थः । चकारो व्यवहितयोरपि पञ्चमीतृतीययोः समुच्चयार्थः, नतुदूरान्तिकार्थैः षष्ठन्तरस्या॑मिति संनिहितषष्ठआ अपि, व्याख्यानात् । तदाह — चात्पञ्चमीतृतीये चेति । प्रातिपदिकार्थमात्रे विधिरयमिति । व्याख्यानादिति भावः । तथाच प्रथमापवाद इति फलितम् ।दूरादावसथान्मूत्रं दूरात्पादावनेजनम् इति भाष्यप्रयोगात्सप्तम्यर्थेऽधिकरणेऽप्ययं विधिः । ननु दूरः पन्था इत्यत्र कथं न पञ्चमीत्यत आह — असत्त्ववचनस्येति । 'दूरः' 'पन्था' इत्यत्र पन्था द्रव्यम् । तद्विशेषणं दूरशब्दः सत्त्ववचन इति भावः॥ इति पञ्चमी ।
दूरान्तिकार्थेभ्यो द्वितीया च॥ प्रातिपदिकार्थे विधानमिति। अर्थान्तरस्यानिर्द्देशादिति भावः। नन्वनिर्देशेऽप्यर्थान्तरस्य शेषविषये पूर्वविभक्तिविषये च विधानमेतद्यःक्तम्, प्रथमाविषये तु परत्वात्सैव प्राप्तोति? नेष दोषः; उतरत्राप्येतदनुवर्तते, तेनोतरविभक्तिविषयेऽपि सर्वत्र यथाभिधानं भवति। तथा च दूरादावसथान्मूत्रमित्यधिकरणेऽपि भवति - आवसथस्य दूर इत्यर्थः। प्रातिपदिकार्थे विधानमित्येततदाहृतविषयं द्रष्टव्यम्। तथा च -'सत्ववचनेभ्यो यथायथं विभक्तयो भवन्ति' इति वक्ष्यति, प्रतिपदिकार्थ एव तु विधाने यथायथमित्यनुपपन्नम्, प्रथमैव भवतीति वाच्यं स्यात्॥