दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्

2-3-34 दूरान्तिकार्थैः षष्ठी अन्यतरस्याम् अनभिहिते पञ्चमी तृतीया

Kashika

Up

index: 2.3.34 sutra: दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्


पञ्चमी अनुवर्तते। दूरान्तिकार्थैः शब्दैर्योगे षष्ठी विभक्तिर्भवति, अन्यतरस्यां पञ्चमी च। दूरं ग्रामस्य, दूरं ग्रामात्। विप्रकृष्टं ग्रामस्य, विप्रकृष्टं ग्रामात्। अन्तिकं ग्रामस्य, अन्तिकं ग्रामात्। अभ्याशं ग्रामस्य, अभ्याशं ग्रामात्। अन्यतरस्याम् ग्रहणं पञ्चम्यर्थम्। इतरथा हि तृतीया पक्षे स्यात्।

Siddhanta Kaumudi

Up

index: 2.3.34 sutra: दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्


एतैर्योगे षष्ठी स्यात् पञ्चमी च । दूरं निकटं ग्रामस्य ग्रामाद्वा ॥

Balamanorama

Up

index: 2.3.34 sutra: दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्


दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् - दूरान्तिकार्थैः । एतैरिति । दूरार्थकैरन्तिकार्थकैश्च शब्दैर्योगे इत्यर्थः । पञ्चमी चेति । षष्ठभावेअपादाने पञ्चमी॑त्यतोऽनुवृत्ता पञ्चमीति भावः ।एनपा द्वितीया॑इतिपृथग्विनानानाभिस्तृतीया॑ इति द्वितीयातृतीया संनिहिते अपि न समुच्चीयेते, व्याख्यानात् ।

Padamanjari

Up

index: 2.3.34 sutra: दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्


दूरान्तिकार्थैः षष्ठ।ल्न्तरस्याम्॥ पक्षे पञ्चम्यर्थे वचनम्, षष्ठी तु शेषत्वादेव सिद्धा। यद्योवम्, अन्यतरस्यांग्रहणमनर्थकं षष्ठीमात्रवचने वैय्यर्थ्यादेव प्रकृता पञ्चमी विधायिष्यते, तत्राह - अन्यतरस्यांग्रहणमिति। वचनसामर्थ्याद्धि प्रकृतविधाने विज्ञायमाने तृतीयाया अपि विधिः स्यात्। ननु कृतमप्यन्यतरस्यां ग्रहणं विकल्पार्थम्, समुच्चयार्थ वा; विकल्पार्थे तावत् षष्ठ।ल मुक्ते स्वादिसूत्रेणा प्राप्ताः सर्वा एव विभक्तयः स्युः, समुच्चयार्थेऽपि प्रकृता तृतीया कस्मान्न समुच्चीयते? उच्यते -'पृथग्विनानानभिः' इत्यत्र तावद् ठन्यतरस्यांग्रहणेन पञ्चमी समुच्चीयतेऽ इत्युक्तम्, अत इहाप्येकप्रघट्टकत्वात्सैव समुच्चीयते। अत एतदपि न चोदनीयम् - ठन्यतरस्यांग्रहणे प्रकृते पुनरन्यतरस्यांग्रहणं किमर्थम्ऽ इति; तत्रापि हि पक्षे तृतीया स्यात्॥