2-2-21 तृतीयाप्रभृत्ल्नि अन्यतरस्याम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः उपपदम् अमा एवा अव्ययेन
index: 2.2.21 sutra: तृतीयाप्रभृतीन्यन्यतरस्याम्
अमा एव इत्यनुवर्तते। उपदंशस् तृतीयायाम् 3.4.47 इत्यतः प्रभृति यान्युपपदानि तानि अमा एव अव्ययेन सहान्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उभयत्रविभाशेयम्। यदमा एव तुल्यविधानमुपपदं तस्य प्राप्ते, यथा उपदंशस् तृतीयायाम् 3.4.47 इति। यत् पुनरमा च अन्येन च तुल्यविधानं तस्य प्राप्ते, यथा अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ (*3,4..59) इति। मूलकोपदंशं भुङ्क्ते, मूलकेन उपदंशं भुङ्क्ते। उच्चैःकारमाचष्टे, उच्चैः कारम्। अमा एव इत्येव, पर्याप्तिवचनेष्वलमर्थेषु 3.4.66, पर्याप्तो भोक्तुम्। प्रभुर्भोक्तुम्।
index: 2.2.21 sutra: तृतीयाप्रभृतीन्यन्यतरस्याम्
उपदंशस्तृतीयायाम् <{SK3368}> इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते । मूलकोपदंशम् ॥
index: 2.2.21 sutra: तृतीयाप्रभृतीन्यन्यतरस्याम्
तृतीयाप्रभृतीन्यन्यतरस्याम् - तृतीयाप्रभृतीनि । तृतीयाशब्देनउपदंशस्तृतीयाया॑मित्यारभ्य॒अन्वच्यानुलोम्ये॑ इत्यन्तसूत्रोपात्तान्युपपदानि विवक्षितानि । अमेति, अव्ययेनेति चानुवर्तते । एवकारस्तु नानुवर्तते, अस्वरितत्वात् । अमेत्येतदव्ययविशेषणम् । तदाह — उपदंशस्तृतीयायामित्यादिना । मूलकोपदंशमिति ।उपदंशस्तृतीयाया॑मिति णमुल् । अमैव तुल्यविधानत्वात्पूर्वसूत्रेण नित्ये प्राप्ते विकल्पोऽयम् । ननुमूलकेने॑त्यस्य 'भुङ्क्ते' इत्यत्रैवान्वयादुपदंश इत्यत्रानन्वयादसामर्थ्यात्कथमिह समास इति चेत्, मैवम् — उपदंशनक्रियां प्रति हि मूलकस्य आर्थकं कर्मत्वमादाय सामर्थ्यमुपपाद्यम् । तृतीया तु प्रधानक्रियानुरोधात्परत्वाच्चोपपाद्येत्यन्यत्र विस्तरः । उच्चैःकारमिति । उच्चेःकृत्वेत्यत्र तुअव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ॑ ।तत्रउच्चैःकार॑मित्यत्र उपपदत्वस्य अमैव तुल्यविधानत्वाऽभावात्अमैवाव्ययेने॑त्यप्राप्तेऽनेन विकल्पः । समासपक्षेआदिर्णमुल्यन्यतरस्या॑मिति कृदुक्तरपदप्रकृतिस्वर आद्युदात्तत्वम् । असमासपक्षे तु उच्चैरिति फिट्सूत्रेणाऽन्तोदात्तत्वमिति फले भेदः । अमन्तेनेति किम् । पर्याप्तो भोक्तुम् । 'पर्याप्तिवचनेषु' इति तुमुन् ।
index: 2.2.21 sutra: तृतीयाप्रभृतीन्यन्यतरस्याम्
तृतीयाप्रभृतीन्यतरस्याम्॥ तृतीयाप्रभृतीनीति। यत्पुनरमा चान्येन तस्याप्राप्त इति उपपदविशेषणार्थ एवकारोऽत्र नानुवर्तत इति भावः। उच्चैः कारमिति। यदा समासस्तदा कृदुतरपदप्रकृतिस्वरः, ठादिर्णमुल्यन्यतरस्याम्ऽ इत्याद्यौदातत्वम्। यदा तु न समासः, तदोच्चैरित्यन्तोदातम्; स्वरादिषु तथा पाठात्। कारमित्याद्यौदातम्॥