न गतिहिंसार्थेभ्यः

1-3-15 न गतिहिंसार्थेभ्यः धातवः आत्मनेपदम् कर्तरि कर्मव्यतिहारे

Sampurna sutra

Up

गतिहिंसार्थेभ्यः कर्तरि कर्मव्यतिहारे आत्मनेपदम् न

Neelesh Sanskrit Brief

Up

(1) गत्यर्थकेभ्यः धातुभ्यः , (2) हिंसार्थकेभ्यः धातुभ्यः - क्रियायाः व्यतिहारे, कर्तरि प्रयोगे आत्मनेपदस्य प्रत्ययाः न भवन्ति ।

Neelesh English Brief

Up

The verbs indicating the action of - (a) movement, or (2) violence - do not get the प्रत्ययाः of आत्मनेपद in the कर्तरि प्रयोग, in the context of व्यतिहार (exchange of actions).

Kashika

Up

पूर्वेणात्मनेपदं प्राप्तं प्रतिषिध्यते। गत्यर्थेभ्यो हिंसार्थेभ्यश्च धातुभ्यः कर्मव्यतिहार आत्मनेपदं न भवति । व्यतिगच्छन्ति। व्यतिसर्पन्ति। हिंसार्थेभ्यः — व्यतिहिंसन्ति। व्यतिघ्नन्ति॥ प्रतिषेधे हसादीनामुपसंख्यानम्॥ व्यतिहसन्ति। व्यतिजल्पन्ति। व्यतिपठन्ति ॥ हरतेरप्रतिषेधः॥ संप्रहरन्ते राजानः॥

Siddhanta Kaumudi

Up

व्यतिगच्छन्ति । व्यतिघ्नन्ति ।<!प्रतिषेधे हसादीनामुपसंख्यानम् !> (वार्तिकम्) ॥ हसादयो हसप्रकाराः शब्दक्रियाः । व्यतिहसन्ति । व्यतिजल्पन्ति ॥<!हरतेरप्रतिषेधः !> (वार्तिकम्) ॥ संप्रहरन्ते राजानः ॥

Laghu Siddhanta Kaumudi

Up

व्यतिगच्छन्ति। व्यतिघ्नन्ति॥

Neelesh Sanskrit Detailed

Up

<<कर्तरि कर्मव्यतिहारे>> 1.3.14 इत्यनेन क्रियायाः व्यतिहारे कर्तरि प्रयोगे यद् आत्मनेपदमुक्तमस्ति, तस्य अनेन सूत्रेण गत्यर्थकेभ्यः तथा हिंसार्थकेभ्यः धातुभ्यः प्रतिषेधः भवति । इत्युक्ते, एतेभ्यः धातुभ्यः यद् पदम् सामान्यरूपेण भवति, तदेव पदम् व्यतिहारे अपि प्रयुज्यते । यथा - व्यतिगच्छन्ति (परस्परान् प्रति गच्छन्ति), व्यतिहिंसन्ति (परस्परान् हिंसन्ति), व्यतिघ्नन्ति (परस्परान् घ्नन्ति) आदयः । अस्मिन् विषये द्वे वार्तिके ज्ञातव्ये - 1) <!प्रतिषेधे हसादीनामुपसंख्यानम्!> - शब्दर्थकेभ्यः धातुभ्यः (इत्युक्ते, यैः धातुभिः ध्वनिः निर्मीयते. तेभ्यः) अपि कर्मव्यतिहारे आत्मनेपदस्य प्रतिषेधः करणीयः । यथा - व्यतिहसन्ति, व्यतिजल्पन्ति, व्यतिपठन्ति । 2) <!हरतेरप्रतिषेधः !> - ह्र-धातोः विषये अयं प्रतिषेधः न भवति । यथा - राजानः सम्प्रहरन्ते । अत्र हिंसायाः अर्थः दृश्यते, तथापि व्यतिहारं दर्शयितुमात्मनेपदमेव प्रयुज्यते ।

Balamanorama

Up

<<न गतिहिंसार्थेभ्यः>> - न गतिहिंसार्थेभ्यः । कर्मव्यतिहारे आत्मनेपदं नेत्यर्थः । हसादिगणस्य अदर्शनादाह — हसप्रकारा इति । उपसर्गमनपेक्ष्य ये गतिहिंसयोर्वर्तन्ते तेषामेव ग्रहणलाभाय अर्थग्रहणम् । ह्मञ्धातुस्तु उपसर्गबलादिंधसायां वर्तते इति न तस्य प्रतिषेध इत्याह — हरतेरप्रतिषेध इति । अर्थग्रहणलभ्यमिदं वार्तिकम् ।

Padamanjari

Up

व्यतिगच्छन्तीत्यादि।'गम्लृ सृप्लृ गतौ' 'तृहि हिसि हिंसायाम्' 'हन हिंसागत्योः' ,गमेः ठिषुगमियमां च्छःऽठ्छे चऽइति तुक्, सृपेर्लधूपधगुणः, हन्तेर्गमहनेत्युपधालोपः,'हो हन्तेः' इति कुत्वम्। हसादीनामिति। हसिप्रकाराणं शब्दक्रियाणामित्यर्थः। उपसंख्यानमिति। संख्यायतेउसंक्षिप्य प्रतिपाद्यतेऽनेनार्थ इति संख्यानमुसूत्रम्, तस्योपोच्चारितमुपसंख्यानं सूत्रम्, समीप इदमपि सूत्रं पठितव्यमित्यर्थः। हरतेरप्रतिषेघ इति। अर्थग्रहणसामर्थ्याह्यए शब्दान्तरनिरपेक्षागतिहिसयोर्वर्तन्ते त इह गृह्यन्त इति उपसर्गवशेन हिसार्थत्वाद्धरतेरप्रतिषेध इत्याहुः। इह तु'ततः संप्रहरिष्यन्तौ द्दष्ट्वा कर्णधनञ्जयौ' इति योत्स्यमानाविति विवक्षितम्, न व्यतीहारः। इह च संव्यवहरन्ते गर्गैरिति वहेरगत्यर्थत्वादप्रतिषेधः, देशान्तरप्रापणं हि वहेरर्थंः- भारं वहतीति;नान्तरीयकस्तु गतिप्रत्ययः कन्याप्रापणमुखेन गर्गैः सम्बध्यन्त इत्यर्थः॥