1-3-14 कर्तरि कर्मव्यतिहारे धातवः आत्मनेपदम्
index: 1.3.14 sutra: कर्तरि कर्मव्यतिहारे
कर्म-व्यतिहारे कर्तरि आत्मनेपदम्
index: 1.3.14 sutra: कर्तरि कर्मव्यतिहारे
क्रियायाः व्यतिहारे कर्तरि प्रयोगे अपि धातोः आत्मनेपदस्य प्रत्ययाः विधीयन्ते ।
index: 1.3.14 sutra: कर्तरि कर्मव्यतिहारे
A verb gets the प्रत्ययाः of आत्मनेपद, even in the कर्तरि प्रयोग, in the context of व्यतिहार (exchange of actions).
index: 1.3.14 sutra: कर्तरि कर्मव्यतिहारे
कर्मशब्दः क्रियवाची। व्यतिहारो विनिमयः। यत्रान्यसम्बन्धिनीं क्रियामन्यः करोति, इतरसम्बन्धिनीं चेतरः, स कर्मव्यतिहारः। तद्धिशिष्टक्रियावचनाद् धातोरात्मनेपदं भवति। व्यतिलुनते। व्यतिपुनते। कर्मव्यतिहारे इति किम्? लुनन्ति। कर्तृग्रहणमुत्तरार्थं शेषात् कर्तरि परस्मैपदम् 1.3.78 इति।
index: 1.3.14 sutra: कर्तरि कर्मव्यतिहारे
क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः ॥ श्नसोरल्लोपः-<{SK2469}> । व्यतिस्ते । व्यतिषाते । व्यतिषते । तासस्त्योः -<{SK2191}> इति सलोपः । व्यतिसे । धि च -<{SK2241}> । व्यतिध्वे । ह एति -<{SK2250}> । व्यतिहे । व्यत्यसै । व्यतिषीत् । व्यत्यास्त । व्यतिराते । व्यतिराते । व्यतिराते । व्यतिभाते । व्यतिभाते । व्यतिभाते । व्यतिबभे ।
index: 1.3.14 sutra: कर्तरि कर्मव्यतिहारे
क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदम्। व्यतिलुनीते। अन्यस्य योग्यं लवनं करोतीत्यर्थः॥
index: 1.3.14 sutra: कर्तरि कर्मव्यतिहारे
किं नाम व्यतिहारः? अस्य शब्दस्य अर्थद्वयम् विद्यते -
[1] एकस्य कार्यम् यदा कश्चन अन्यः करोति, तदा तस्य 'व्यतिहार' इति संज्ञा भवति । When the duty of one person is carried out by another, we refer to it as व्यतिहार.
[2] द्वौ मनुष्यौ परस्परयोः समानम् व्यवहारम् यदा कुरुतः, तदा अपि तस्य 'व्यतिहार' इति संज्ञा भवति । When two people do the same action against each other, that is also referred as व्यतिहार.
उभयप्रकारयोः व्यतिहारं दर्शयितुम् वर्तमानसूत्रेण कर्तरि प्रयोगे अपि आत्मनेपदस्यैव प्रयोगः भवति । यथा -
[अ] वृक्षच्छेदनकार्यम् वस्तुतः शूद्रस्य अस्ति, परन्तु यदि ब्राह्मणः तत् कार्यं करोति, तर्हि अयम् 'व्यतिहारः' अस्तीति उच्यते, तदर्थम् च आत्मनेपदम् प्रयुज्यते । यथा - ब्राह्मणः वृक्षं व्यतिलुनीते ।
[आ] द्वौ राजानौ परस्परयोः प्रहारं कुरुतः चेत् अत्रापि व्यतिहारः दृश्यते, अतः अत्रापि क्रियां द्योतयितुमात्मनेपदं प्रयुज्यते । यथा - राजानौ सम्प्रहरेते । राजानः सम्प्रहरन्ते ।
ज्ञातव्यम् - अस्मिन् सूत्रे 'कर्म' शब्दः कारकार्थे प्रयुक्तः नास्ति, 'क्रिया' अस्मिन् अर्थे प्रयुक्तः अस्ति । कर्मव्यतिहार इत्युक्ते क्रियायाः व्यतिहारः ।
index: 1.3.14 sutra: कर्तरि कर्मव्यतिहारे
कर्त्तरि कर्मव्यतिहारे - कर्तरि कर्म । कर्मव्यतिहारशब्दं विवृण्वन्नाह — क्रियाविनिमये द्योत्ये इति । एवं च कर्मशब्दः क्रियापरः, व्यतिहारशब्दो विनिमयपर इत्युक्तं भवति । अन्यस्येति । शूद्रादियोग्यं सस्यादिलवनं ब्राआहृणः करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहार इति कैयटः । संप्रहरन्ते राजानः । कर्तृग्रहणं भावकर्मणोरित्यस्याऽनुवृत्तिनिवृत्त्यर्थम् ।अन्यथा व्यतिलुनीत इत्यत्र न स्यात् । वस्तुतस्तु पृथक् सूत्रारम्भादेव सिद्धे कर्तृग्रहणमुत्तरार्थमिति भाष्ये स्पष्टम् । व्यति अस् ते इति स्थिते आह — श्नसोरिति । तपसे अयोग्यः शूद्रस्तपस्वी भवतीत्यर्थः । इहउपसर्गप्रादुभ्र्या॑मिति न षः, यच्परकत्वाऽभावादिति भावः । व्यतिषाते इति । इह अच्परकत्वादुपसर्गप्रादुभ्र्यामिति षः । व्यति स् से इति स्थिते आह — तासस्त्योरिति ।उपसर्गप्रादुभ्र्या॑मिति नेह ष्टवम्, अस्त्यवयवस्य सकारस्य लुप्तत्वात् । व्यति स् ध्वे इति स्थिते आह — धि चेति । 'सलोप' इति शेषः । व्यितस् ए इति स्थिते आह — ह एतीति । सकारस्य हकार इति भावः । व्यत्यसै इति । लोडुत्तमपुरुषैकवचनम् । व्यत्यास्तेति । लङि रूपम् । व्यतिषीतेति । लिङि रूपम् । व्यतिराते इति । लटि प्रथमपुरुषैकद्विबहुवचनेषु समानमेव र#ऊपम् । व्यतिभाते इति । भाधातो रूपम् । व्यतिबभे इति । लिटि रूपम् ।
index: 1.3.14 sutra: कर्तरि कर्मव्यतिहारे
अत्र लौकिकं कर्म गृह्यते, न पारिभाषिकमित्याह-कर्मशब्दः क्रियावाचीति। ननु कृत्रिमत्वात्पारिभाषिकस्यैव ग्रहणं युक्तं ततो देवदतस्य धान्यं व्यतिलुनन्तीत्यत्रैव स्यात्, एवं मन्यते-इह'कर्तरि व्यतीहारे' इतीयता सिद्धं, करणादिव्यतीहारे कस्मान्न भवति, उच्यते;क्रियायाः साध्यत्वात् प्राधान्यं क्रिययाप्तुमिष्टतमत्वातादर्थ्येते;तद्यदि साधनं कर्म गृह्यएत, तदा क्रियाया अपि संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात् कृत्रिमकर्मत्वमिति पुनरुभयोरपि ग्रहणात् कर्मग्रहणमनर्थकं स्यात्। किं चात्मनेपदेनाक्षिप्तोऽनुवृतो वा धातुः कर्मव्यतिहारेण विशेष्यते-तत्र वर्तमानाद्धातोरिति, न च साधनकर्मणि धातोर्वृत्तिः सम्भवति, तस्य क्रियावाचित्वादिति। विनिमयो व्यत्यास इत्यर्थः। एतदेव स्पष्टयति-यत्रेति। योग्यतावशादस्येदं साधनम्, अस्येयं क्रिया साध्येति निर्ज्ञातयोर्विपर्यासः साध्यसाधनभावस्य स व्यतीहार इति विवक्षितम्। यत्रेत्युपक्रमातु स व्यतीहारस्य विषयो विवक्षित इत्यर्थः। परस्परकरणमपि कर्मव्यतीहार उच्यते-संप्रहरन्ते राजानः, व्यात्युक्षीमभिसरणग्लहामदीब्यन्निति। व्यतिलुनत इति ।'लुञ् छेदने' ठात्मनेपदेष्वनतःऽइत्यदादेशः,'श्नाभ्यस्तयोः' इत्याकारलोपः,'प्वादीनां ह्रस्वः' । अन्योन्ययोग्यमन्योन्यविषये वा लवनं कुर्वन्तीत्यर्थः । एवंरूपश्चार्थोऽनेककर्तृकत्वे सति प्रतीयत इत्येकवचनं न भवतीति केचिदाहुः। व्यत्यसे, व्यतिहे इत्येकवचनमपि तत्र तत्रोदाहरिष्यते। ठन्यो व्यतिस्ते तु ममापि धर्मःऽ इति भट्टिप्रयोगः। कर्मव्यतीहार इति किमिति । कर्तृग्रहणमेव व्यतिलुनत इत्यादौ प्रापकत्वेनोपयोक्ष्यत इति भावः। अथ कर्तृग्रहणं किमर्थम् ? भावकर्मनिवृत्यर्थं न वा पूर्वेण भावाद्। भावकर्मणोर्हि पूर्वेणात्मनेपदं भवत्येव - व्यतिलूयते व्यतिपूयत् इति, तेन यथा स्याद्, अनेन मा मूत्, कः पुनरत्र विशेषः ? तेन वा स्यादनेन वा ? अयमस्ति विशेषः-अनेन सति'न गतिहिसार्थेभ्यः' इति प्रतिषेधः प्राप्नोति - व्यतिगम्यते ग्रामः, व्यतिहन्यन्ते दस्यव इति। न वानन्तरस्य प्रतिषेधाद् व्यतिहन्यत इत्यत्र द्वे प्राप्ती -'भावकर्मणोः' इति च । तथा ठनन्तरस्य विधिर्भवति प्रतिषेधो वाऽइति अनन्तरा कर्मव्यतीहारलक्षण प्राप्तिः प्रतिषिध्यते, पूर्वा तु भविष्यति, नार्थं एतेन कर्तृग्रहणेनत्यत आह - कर्तृग्रहणमिति।'शेषात्कर्तरि' इति प्रदर्शनमेतद् । ठाङे दोऽनास्यविरहणोऽइत्यादावप्यस्योपयोगं वक्ष्यामः॥