स्वमोर्लुक् । दत्वम् । स्वनडुत्, स्वनडुद् । स्वनडुही । चतुरनडुहोरित्याम् । स्वनड्वांहि । पुनस्तद्वत् । शेषं पुंवत् ॥ वाः । वारी । वारि । वार्भ्याम् ॥ चत्वारि ॥ किम् । के । कानि ॥ इदम् । इमे । इमानि ॥ <<अन्वादेशे नपुंसके वा एनद्वक्तव्यः>> (वार्त्तिकम्) । एनत् । एने । एनानि । एनेन । एनयोः ॥ अहः । <<विभाषा डिश्योः>> । अह्नी, अहनी । अहानि ॥