7-3-34 न उदात्तोपदेशस्य मान्तस्य अनाचमेः वृद्धिः ञ्णिति युक्चिण्कृतोः
index: 7.3.34 sutra: नोदात्तोपदेशस्य मान्तस्यानाचमेः
उदात्तोपदेशस्य मान्तस्य अनाचमेः 7.3.34। उदातोपदेशस्य मान्तस्य अङ्गस्य आचमिवर्जितस्य चिणि कृति च ञ्णिति यदुक्तं तन् न भवति। किं च उक्तम्? अत उपधायाः 7.2.116 इति वृद्धिः। अशमि। अतमि। अदमि। कृति खल्वपि शमकः। तमकः। दमकः। शमः। तमः। दमः। उदात्तोपदेशस्य इति किम्? यामकः। रामकः। कथमुद्यमोपरमौ? अड उद्यमे, यम उपरमे इति निपातनादनुगन्तव्यौ। उपदेशग्रहणम् किम्? शमी, दमी, तमी इत्यत्र यथा स्यात्, इह मा भूत्, यामकः, रामकः इति। मान्तस्य इति किम्? चारकः। पाठकः। अनाचमेः इति किम्? आचामकः। अनाचमिकमिवमीनाम् इति वक्तव्यम्। आचामः। कामः। वामः। आमः इति चौरादिकस्य णिचि वृद्धौ सत्यां भवति। तत्र हि मित्त्वं न अस्ति न अन्ये मितोऽहेतौ इति। सूर्यविश्रामा भूमिः इत्येवमादिकं प्रयोगमन्याय्यम् एव मन्यन्ते। चिण्कृतोः इत्येव, शशाम। तताम।
index: 7.3.34 sutra: नोदात्तोपदेशस्य मान्तस्यानाचमेः
उपाधाया वृद्धिर्न स्याच्चिणि ञिति णिति कृति च । अशमि । अदमि । उदात्तोपदेशस्येति किम् । अगामि । मान्तस्य किम् । अवादि । अनाचमेः किम् । आचामि ।<!अनाचमिकमिवमीनामिति वक्तव्यम् !> (वार्तिकम्) ॥ चिणि आयादयः -<{SK2305}> इति णिङभावे । अकामि । णिङ्णिचोरप्येवम् । अवामि । वध हिंसायाम् । हलन्तः । जनिवध्योः <{SK2512}> इति न वृद्धिः । अवधि । जाग्रोऽविचिण्णल्ङित्सु <{SK2480}> इत्युक्तेर्न गुणः । अजागारि ।
index: 7.3.34 sutra: नोदात्तोपदेशस्य मान्तस्यानाचमेः
नोदात्तोपदेशस्य मान्तस्यानाचमेः - नोदात्तोपदेशस्य ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति, 'अत उपधायाः' इत्यत उपधाया इति,अचो ञ्णिती॑त्यतो ञ्णितीति, 'आतो युक्' इत्यततश्चिण्णकृतोरिति चानुवर्तते । तत्र णितीति कृतएव विशेषणं, न तु चिणः, अव्यभिचारात् । तदाह — उपधाया इत्यादिना । अनुदात्तोपदेशाः - सङ्गृहीताः । ततोऽन्यः सर्वोऽपि धातुरुदात्तोपदेशः । आङ्पूर्वश्चमिराचमिः, तद्वर्जस्येत्यर्थः । अशमि अदमीति । शमधातोर्दमधातोश्च लुङि चिणि 'अत उपधायाः' इति वृद्धिर्न । अगामीति । गमेरनुदात्तोपदेशत्वादिति भावः । अवादीति । वदधातुर्न मान्त इति भावः । आचामीति ।अनाचमे॑रित्युक्तेरिह नोपधावृद्धिनिषेधः । अनाचमिकमिवमीनामिति । आचामिकमिवमिवर्जानामित्यर्थः । एवं च कमिवम्योरपि न निषेध इति फलितम् । ननु कर्मेर्णिङन्तत्वात्केवलस्य तस्य चिणादौ प्रयोग एव नास्तीत्यत आह — चिण्यायादय इति । णिङणिचोरप्येवमिति । णिङन्ताण्णिजन्ताद्वा कमेश्चिणि णिलोपे सति पूर्ववद्रूपं शिष्यते इत्यर्थः । ननुजनिवध्योश्चे॑ति वधेरुपधावृद्धिनिषेधो व्यर्थः, वधादेशस्याऽदन्ततया अल्लोपस्य स्थानिवत्त्वादेव अवधीत्यादौ उपधावृद्ध्यभावसिद्धेरित्याशङ्क्य वधर्धात्वन्तरं हलन्तमेवजनिवध्योश्चे॑त्यत्र गृह्रत इत्यभ#इप्रेत्य आह - वध हिंसायां हलन्त इति ।
index: 7.3.34 sutra: नोदात्तोपदेशस्य मान्तस्यानाचमेः
उपदेशे उदात उदातोपदेशः । अस्मादेव निपातनात्साधुः । किञ्चोक्तमिति । सन्निहितस्य कस्यचिदप्रसङ्गात्प्रश्नः । अत उपधाया इति वृद्धिरिति । चिण्कृदुपजीवनार्थं तु न तदनन्तरमिदमारब्धम् । निपातनादनुगन्तव्यमिति । येषां तु ठपाणिनीयो धातुपाठेऽर्थनिर्द्देशःऽ इति पक्षः, तेषामत्र'संज्ञापूर्वको विधिरनित्यः' इति वृद्ध्यभावः । शमी, तमीति ।'शमित्यष्टाभ्यो घिनुण्' , अत्र प्रत्ययस्वरे कृते सम्प्रति धातुरनुदातः । यामकः, रामक इति । लित्स्वरे कृते भवत्ययं सम्प्रत्युदातः । ठनाचमेःऽ इत्यल्पमिदमुच्यते ? इत्याह - अनाचमिकमिवमीनामिति वक्तव्यमिति ।'टुअवम उद्गिरणे' ,'कमु कान्तौ' ,'चमु अदने' , तत्र सूत्रे आङ्पूर्वस्य पर्युदासः, वाक्ये तु केवलस्य । वृतौ तु वाक्योदाहरणमप्याङ्पूर्वस्यैव दर्शितम्, नात्राप्तैर्निरणायि । काम इति । कमेः ठायादय आर्धधातुके वाऽ इति णिङ्भाव पक्षे घञ्, वृद्धिः । णिचि वृद्धौ सत्यमिति । न हि तत्रायं प्रतिषेधः; णिचोऽकृत्वात् । ननु च सत्यामपि वृद्धौ'जनीजृष्क्नसुरञ्जौ' मन्ताश्चऽ इति मित्वे सति'मितां ह्रस्वः' इति ह्रस्वेन भाव्यम् ? अत आह - तत्र हीति । नान्ये मितोऽहेतावितीति । अहेतौ चुरादिणिच्यनुक्रान्तेभ्योऽन्येऽमन्तादयो मितो न भवन्तीत्यर्थः । अन्याय्यमेव मन्यन्त इति ।'विश्रान्तिभूमिः' इति पठितव्यमित्यर्थः । तेन'विश्रामं लभता मिदं च शिथिलज्याबन्धमस्मद्धनुः' इति व्याख्यातम् ॥