ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु

6-3-85 ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु उत्तरपदे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ज्योतिस् जनपद रात्रि नाभि नामन् गोत्र रूप स्थान वर्ण वयस् वचन बन्धु इत्येतेषूत्तरपदेषु समानस्य स इत्ययमादेशो भवति। सज्योतिः। सजनपदः। सरात्रिः। सनाभिः। सनामा। सगोत्रः। सरूपः। सस्थानः। सवर्णः। सवयाः। सवचनः। सबन्धुः॥

Siddhanta Kaumudi

Up

एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपद इत्यादि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

सज्यातिरिति । समानं ज्योतिरस्येति बहुव्रीहिः, यस्मिञ्ज्योतिष आदित्ये नक्षत्रे वा उपनिपतितमानस्यास्तमयादनुवर्तमानमाशौचं सज्योतिरित्युच्यते, सरुपाणामेकशेषः, स्थानान्ताद्विभाषा, सस्थानेन इति निर्धेशाद्बहुव्रीहावप्ययं सभावो भवति, न तु पूर्वोपरप्रथमचरमजघन्यसमान इति प्रतिपदोक्त एव तत्पुरुषे ॥