धनहिरण्यात् कामे

5-2-65 धनहिरण्यात् कामे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा अध्यायानुवाकयोः तत्र कन्

Sampurna sutra

Up

index: 5.2.65 sutra: धनहिरण्यात् कामे


'तत्र कामे' (इति) धन-हिरण्यात् कन्

Neelesh Sanskrit Brief

Up

index: 5.2.65 sutra: धनहिरण्यात् कामे


सप्तमीसमर्थात् 'धन' तथा 'हिरण्य' एताभ्यां शब्दाभ्याम् 'काम' (इच्छा / अभिलाषा) इत्यस्य निर्देशार्थम् कन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.65 sutra: धनहिरण्यात् कामे


तत्र इत्येव, कनिति च। धनहिरण्यशब्दाभ्यां तत्र इति सप्तमीसमर्थाभ्यां कामे इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। कामः इच्छा, अभिलाषः। धने कामः धनको देवदत्तस्य। हिरण्यको देवदत्तस्य।

Siddhanta Kaumudi

Up

index: 5.2.65 sutra: धनहिरण्यात् कामे


काम इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.65 sutra: धनहिरण्यात् कामे


सप्तमीसमर्थात् 'धन' शब्दात् तथा 'हिरण्य' (= सुवर्णम्) शब्दात् 'इच्छा / अभिलाषा' इत्यस्य निर्देशम् कर्तुम् 'कन्' प्रत्यय भवति । यथा -

  1. धने कामः धनकः । धनप्राप्तौ धनसङ्ग्रहे वा वर्त्तमाना इच्छा 'धनक' नाम्ना ज्ञायते । यथा - देवदत्तस्य धनकः (= देवदत्तस्य धनप्राप्तेः इच्छा) ।

  2. हिरण्ये कामः हिरण्यकः । हिरण्यप्राप्तौ विद्यमाना इच्छा 'हिरण्यक' नाम्ना ज्ञायते । यथा - देवदत्तस्य हिरण्यकः (= देवदत्तरस्य सुवर्णप्राप्तेः इच्छा) ।

स्मर्तव्यम् - अनेन सूत्रेण जायमानौ 'धनक / हिरण्यक' शब्दौ 'इच्छा' अस्मिन् अर्थे प्रयुज्यते, न हि 'यस्य इच्छा अस्ति' तस्य विषये । अतएव उदाहरणेषु 'देवदत्तस्य धनकः' (= देवदत्तस्य इच्छा) इति उच्यते, न हि 'देवदत्तः धनकः' इति ।

Balamanorama

Up

index: 5.2.65 sutra: धनहिरण्यात् कामे


धनहिरण्यात् कामे - धनहिरण्यात्कामे । तत्रेत्यनुवर्तते । धनशब्दाद्धिरण्यशब्दाच्च सप्तम्यन्तात्कामे वाच्ये कन्स्यादित्यर्थः । काम इच्छेति । नतु कामयिता, व्याख्यानादिति भावः ।

Padamanjari

Up

index: 5.2.65 sutra: धनहिरण्यात् कामे


काम इच्छेति। कामयिता तु न गृह्यते; अनभिधानात् ॥