5-2-13 अद्यश्वीना अवष्टब्धे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा खः तत् विजायते
index: 5.2.13 sutra: अद्यश्वीनाऽवष्टब्धे
'अवष्टब्धे विजायते' (इति) अद्यश्वीनः (निपात्यते)
index: 5.2.13 sutra: अद्यश्वीनाऽवष्टब्धे
'अद्य श्वः वा विजायते' अस्मिन् अर्थे 'अद्यश्वीन' शब्दः निपात्यते ।
index: 5.2.13 sutra: अद्यश्वीनाऽवष्टब्धे
विजायते इति वर्तते। अद्यश्वीन इति निपात्यते अवष्टब्धे विजने, आसन्ने प्रसवे। आविदूर्ये हि मूर्धन्यो विधीयते अवाच् च आलम्बनाऽविदूर्ययोः 8.3.68 इति। अद्य वा श्वो वा विजायतेऽद्यश्वीना गौः। अद्यश्वीना वडवा। केचित् तु विजायते इति न अनुवर्तयन्ति, अवष्टब्धमात्रे निपातनम् इत्याहुः। अद्यश्वीनं मरणम्, अद्यश्वीनो वियोगः इति।
index: 5.2.13 sutra: अद्यश्वीनाऽवष्टब्धे
अद्य श्वो वा विजायते अद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः ॥
index: 5.2.13 sutra: अद्यश्वीनाऽवष्टब्धे
वर्तमानसूत्रेण 'अद्यश्वीन' इति शब्दः निपात्यते । 'अवष्टब्धे (= समीपकाले, in very near future) विजायते (= गर्भं धारयति / जन्म ददाति , becomes pregnant / gives birth)' अस्मिन् अर्थे अस्य शब्दस्य प्रयोगः भवति । अत्र 'अद्य वा श्वो वा विजायते' इति विग्रहवाक्यं स्वीकृत्य तस्मात् ख-प्रत्ययान्तस्य 'अद्यश्वीन'शब्दस्य निपातनम् क्रियते ।
उदाहरणम् - 'इयम् गौः अद्यश्वीना अस्ति' । इयम् गौः अद्य वा श्वः वा प्रसविष्यति - इति आशयः ।
स्मर्तव्यम् -
केचन पण्डिताः अस्मिन् सूत्रे 'विजायते' इत्यस्य अनुवृत्तिम् न स्वीकुर्वन्ति । अतः तेषाम् मतेन या काऽपि क्रिया 'अद्य वा श्वः वा' भविष्यति, तस्याः निर्देशः 'अद्वश्वीन' इत्यनेन भवितुमर्हति । यथा, अद्यश्वीनम् मरणम् ; अद्यश्वीना परीक्षा ; अद्यश्वीनः वियोगः - आदयः ।
अस्मिन् सूत्रे 'अवष्टब्ध' इति शब्दः प्रयुज्यते । अयम् शब्दः 'अव + स्तम्भ्' इत्यत्र क्त-प्रत्ययान्तरूपमस्ति । 'निकटम् प्राप्तः / आपन्नः' अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते ।
index: 5.2.13 sutra: अद्यश्वीनाऽवष्टब्धे
अद्यश्वीनाऽवष्टब्धे - अद्यआईनाऽवष्टब्धे ।अद्यआईने॑त्यविभक्तको निर्देशः । अवष्टब्धम्ासन्नम् ।अवाच्चालम्बनाविदूर्ययो॑रित्याविदूर्ये स्तन्भेः षत्वविधानात् । अद्य आओ वा विजायत इत्यर्थे अद्य आसिति समुदायात्खः स्यादासन्नत्वे गम्ये इत्यर्थः । अद्यआईना वडवेति । अद्य वा आओ वेति वार्थे निपानात्समासः । खे सति 'अव्ययानां भमात्रे' इति टिलोपः । सूत्रे अद्यआईनेति टाबन्तनिर्देशे तु अद्यआईनो गोसमूहः, अद्यआईनां गोमण्डलमिति न स्यात् ।
index: 5.2.13 sutra: अद्यश्वीनाऽवष्टब्धे
अवष्टब्ध, विजन - इत्येतयोर्यथाक्रमं विवरणम् - आसन्ने प्रसव इति। कथं पुनरवष्टब्धशब्दस्यासन्नमर्थः ? इत्याह - आविदूर्ये हीति। यद्यप्यालम्बनेऽपि षत्वं विधीयते; तथापि विजनस्यालम्बनत्वासम्भवादाविदूर्यमेवार्थः। किं पुनरत्र निपात्यते ? अद्य वा विश्वो वेति वार्थे समासः खप्रत्ययः, टिलोपस्त्वव्ययत्वादेव सिद्धः। अद्यश्वीना वडवेति। विजायत इत्यस्यानुकूलतया स्त्रीलिङ्गमुदाहृतम्, न पुनः सूत्रे स्त्रीलिङ्गनिर्द्देशः। अद्यश्वीनो गोसमूहः, अद्यश्वीनं गोमण्डलमित्यत्रापीष्ठत्वात्। ????????? ह्रस्वान्तस्याविभिक्तिको निर्देशः। केचित्विति। तेषां यथाभिधानं क्रियाध्याहारः। अवष्टब्धमात्रे इति। भवत्याद्यर्थेऽपीत्यर्थः। अद्यस्वीनं मरणमिति। अद्य वा श्वो वा भविष्यतीत्यत्रार्थे प्रत्ययः ॥