3-1-41 विदाङ्कुर्वन्तु इति अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः आम्
विदाङ्कुर्वन्त्वित्येतदन्यतरस्यां निपात्यते। किं पुनरिह निपात्यते? विदेर्लोटि आम्प्रत्ययः, गुणाभावः, लोटो लुक् , कृञश्च लोट्परस्यानुप्रयोगः। अत्र भवन्तो विदाङ्कुर्वन्तु, विदन्तु। इतिकरणः प्रदर्शनार्थः, न केवलं प्रथमपुरुषबहुवचनम्। किं तर्हि? सर्वाण्येव लोड्वचनान्यनुप्रयुज्यन्ते। विदाङ्करोतु। विदाङ्कुरुतात्। विदाङ्कुरुताम्। विदाङ्कुरु। विदाङ्कुरुतमित्यादि॥
वेत्तेर्लोट्याङ्गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न विवक्षिते इति शब्दात् ॥
वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते पुरुषवचने न विवक्षिते॥
<<विदाङ्कुर्वन्त्वित्यन्यतरस्याम्>> - विदाङ्कुवन्त्वित्यन्तयतरस्याम् ।कृञ् चानुप्रयुज्यते लिटी॑त्युत्तरमिदं सूत्रम् । इतिशब्दः प्रकारे । एवंजातीयकं वैकल्प्येन प्रत्येतवयमित्यर्थः । वेत्तेरिति । लुगविकरणाद्विदधातोः लोटिपरे आम्प्रत्ययो निपात्यते इत्यर्थः । लोडन्तेति । आम्न्ताद्विदेर्लोडनतकृञ्धातोनुप्रयोगश्च निपात्यतैत्यर्थः । ननुविदाङ्कुर्वन्तु॑ति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात्कतं लोडन्तसामान्यानुप्रयोग इत्यत आह — पुरुषेति । कुर्वन्त्विति प्रथमपुरुषो बहुवचनं च न विवक्षितमित्यर्थः । तयोस्तु नान्तरीयकमुच्चारणमिति भावः । इति शब्दादिति । तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः ।
विदांकुर्वन्त्वित्यन्यतरस्याम्॥ इहोतरत्र चानुप्रयोगानुसारेण आमन्ते लकार उन्नेयः। विदेर्लोट।लम्प्रत्यय इति। निपात्यत इत्यनुषङ्गः, तथा गुणाभावश्चेत्यत्र। एवं लोटो लुगित्यत्र, तथा कृञश्च लोट्परस्यानुप्रयोग इत्यत्र। सर्वमेतदप्राप्तमिति निपात्यते। इतिकरणः प्रदर्शनार्थ इति। सर्वेषां लोड्वचनानामुपलक्षणार्थ इत्यर्थः। किमेवं सति सिद्धं भवतीत्याह - न केवलमिति। प्रचुरप्रयोगत्वातु सूत्रे बहुवचनं पठितम्। कश्चितु भाष्यवार्तिककारानुक्तत्वादुपलक्षणत्वं नेच्छति, स इतिकरणस्य प्रयोजनं ब्रवीतु॥