न निर्धारणे

2-2-10 न निर्धारणे आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः षष्ठी

Kashika

Up

index: 2.2.10 sutra: न निर्धारणे


पूर्वेण समासे प्राप्ते प्रतिषेध आरभ्यते। निर्धारने या षष्ठी सा न समस्यते। जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारनम्। क्षत्रियो मनुष्याणाम् शूरतमः। कृष्णा गवां सम्पन्नक्षीरतमा। धवन्नध्वगानां शीघ्रतमः। प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम्। सर्पिषो ज्ञानम्। मधुनो ज्ञानम्।

Siddhanta Kaumudi

Up

index: 2.2.10 sutra: न निर्धारणे


निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः ।<!प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् !> (वार्तिकम्) ॥ सर्पिषो ज्ञानम् ॥

Balamanorama

Up

index: 2.2.10 sutra: न निर्धारणे


न निर्धारणे - न निर्धारणे । नृणां द्विजः श्रेष्ठ इति । अत्रनृणा॑मिति षष्ठन्तस्य द्विजशब्देन समासो न भवति । पुरुषाणामुत्तमः पुरुषोत्तम इत्यत्र तु शेषषष्ठएव न तु निर्धारणषष्ठी ।यतो निर्धारणं यच्च निर्धायते यश्च निर्धारणहेतुः-एतत्त्रितयसंनिधान एव तस्याः प्रवृत्ते॑रिति कैयटः ।गुणेन निषेधस्त्वनित्य॑ इति तरप्सूत्रे कैयटः । केचित्तुउत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः॑ इति गीतावाक्यात्कर्मधारय एव । उत्तमशब्दस्य विशेषणत्वेऽपि राजदन्तादित्वात् परनिपात इत्याहुः ।प्रतिपदविधानेति । पदं पदं प्रतीति वीप्सायामव्ययीभावः । प्रतिपदं विधानं यस्याः सा प्रतिपदविधाना । 'षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्यम् । सर्पिषो ज्ञानमिति । अत्रज्ञोऽविदर्थस्य करणे॑ इति विहितषष्ठ्याः समासो न भवति, 'न निर्धारणे' इति प्रत्याख्येयमेवेति भाष्ये स्पष्टमित्यलम् ।

Padamanjari

Up

index: 2.2.10 sutra: न निर्धारणे


न निर्द्धारणे॥ जातिगुणक्रियाभिरिति। उपलक्षणमेतत्; कतरो भवतोर्देअवदत इति संज्ञायामपि निर्द्धारणदर्शनात्। क्षत्रियो मनुष्याणां शूरतम इति। अत्र क्षत्रियशब्देन समासप्रसङ्गः; तदपेक्षया हि मनुष्याणामिति षष्ठी, न शूरतमापेक्षया, गुणशब्दत्वाच्च न तेन समासप्रसङ्गः। कृष्णा गवामिति। नात्रायमर्थः - गवां मध्ये या कृष्णा सा सम्पन्नक्षीरतमेति, एवं हि कृष्णाशब्दस्य गवामित्यनेन सम्बन्धः। न च तस्य समासप्रसङ्गः; गुणेन नेति प्रतिषेधात्। तस्माद्रवां मध्ये या सम्पन्नक्षीरतमा सा कृष्णेत्ययमत्रार्थः। धावन्नध्वगानामिति। अत्र धावच्छब्देन समासाप्रसङ्गः; सत्संज्ञकत्वात्। शीघ्रतमशब्दस्तु गुणशब्दो न वेति चिन्त्यम्। प्रतिपदविधाना चेति। शेषलक्षणां मुक्त्वा सर्वान्या प्रतिपदविधाना षष्ठी। कथं गृहस्वामी, विद्यादायादः, पृथिवीश्वर इति, यावता'स्वामीश्वर' इत्यादिना प्रतिपदमत्र षष्ठी ? नानेन षष्ठी विधीयते, किं तर्हि? सप्तमी। सा तु षष्ठआआ मा बाधिष्टेति चकारेण शेषलक्षणैवाभ्यनुज्ञायते। अत एव'न निर्द्धारणे' इति सूत्रारम्भः।'यतश्च निर्द्धारणम्' इत्यत्रापि हि चकारेण शेषलक्षणैव षष्ठी प्रतिप्रसूयते; अन्यथा सापि प्रतिपदविधानैव स्यादिति किं'न निर्द्धारणे' इत्यनेन। सर्पिषो ज्ञानमिति।'ज्ञो' विदर्थस्य करणेऽ इति षष्ठी। अत्राहुः -'ज्ञो' विदर्थस्य करणेऽ इति षष्ठीप्रकरणे'शेषे' इति वर्तते, तत्र न माषाणामश्नीयादितिवत्'षष्ठी शेषे' इत्यनेनैव सिद्धा षष्ठी, प्रकरणं तु नियमार्थम्। षष्ठी भवत्येव श्रूयत एव, न तस्याः समासो भवतीत्यर्थः। समासे'सुपो धातुप्रातिपदिकयोः' इति सुब्लुक् स्यात्। तस्मात्प्रतिपदविधाना चेति न वक्तव्यम्, एवं च कृत्वा'कृद्योगा च' इत्यपि न वक्तव्यम्,'कर्तृकर्मणोः कृति' इत्यत्र हि'शेषे' इति निवृतमिति वक्ष्यते, तेन कर्तृकर्मविवक्षायामप्राप्तैव षष्ठी तेन विधीयत इति कुतः समासनिवृत्तिरिति॥